Go To Mantra

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

English Transliteration

yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva | ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema ||

Pad Path

यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ । यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ १०.१२१.३

Rigveda » Mandal:10» Sukta:121» Mantra:3 | Ashtak:8» Adhyay:7» Varga:3» Mantra:3 | Mandal:10» Anuvak:10» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (यः) जो परमात्मा (प्राणतः) प्राण लेते हुए (निमिषतः) शान्त चेष्टा करते हुए (जगतः) जगत् का (महित्वा) अपने महत्त्व से (एकः-इत्) अकेला ही (राजा बभूव) राजा है (यः) जो (अस्य) इस (द्विपदः) दो पैर वाले (चतुष्पदः) चार पैरवाले का (ईशे) स्वामी बना हुआ है (कस्मै ...) पूर्ववत् ॥३॥
Connotation: - परमात्मा स्थावर जङ्गम जगत् का तथा दो पैर और चार पैरवाले प्राणी का स्वामी है, उस सुखस्वरूप प्रजापति के लिये उपहाररूप से अपनी आत्मा को समर्पित करना चाहिये ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यः) यः परमात्मा (प्राणतः-निमिषतः-जगतः) प्राणं गृह्णतोऽथ शान्तचेष्टां कुर्वतश्च जगतः संसारस्य (महित्वा) स्वमहत्त्वेन (एकः-इत्) एक एव (राजा बभूव) राजाऽस्ति (यः) यः खलु (अस्य द्विपदः-चतुष्पदः-ईशे) अस्य द्विपादवतश्चतुष्पादवतश्च प्राणिनः स्वामिनं करोति (कस्मै देवाय हविषा-विधेम) पूर्ववत् ॥३॥